Monday, 7 October 2013

!! गायत्र्यष्टकम !!

भक्ती सागर 













!!! श्री स्वामी समर्थ !!!
!! गायत्र्यष्टकम !!

विश्वामित्रपः फलां प्रियतरां विप्रालि संवितां ।
नित्याऽनित्य विवेकदां स्मित मुखीं खण्डेन्दु भूषोज्ज्वलाम् ।
ताम्बूलारुण भासमान वदनां मार्तण्ड मध्य स्थितां ।
गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम् ।।
जाती पङ्कज केतकी कुवलयैः संपूजिताङ्ध्रिद्वयां ।
तत्त्वार्थात्मिक वर्ण पङ्क्ति सहितां तत्त्वार्थ बुद्धि प्रदाम् ।
प्राणायाम परायैर् बुधजनैः संसेव्यमानां शिवां ।
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ।।
मञ्जीर ध्वनिभिः समस्त जगतां मञ्जुत्व संवर्धनीं ।
विप्र प्रेङ्खित वारिवारित महा रक्षो गणां मृण्मयीम् ।
जप्तुः पापहरां जपाकुसुम निभां हंसेन संशोभितां ।
गायत्रीं हरिवल्लभां त्रिननां ध्यायामि पञ्चाननाम् ।।
काञ्ची चेल विभूषितां शिवमयीं मालार्ध मालादिकान् ।
बिभ्राणां परमेश्वरीं शरणदां मोहान्ध बुद्धिच्छिदाम् ।
भूरादि त्रिपूरां त्रिलोक जननीं अध्यात्म शाखानुताम् ।
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ।।
ध्यातुर् गर्भ कृशानु ताप हरणां समात्मिकां सामगाम् ।
सायंकाल सुसेवितां स्वरमयीं दूर्वादल श्यामलाम् ।
मातुर्दास्य विलोचनैक मतिमत् खेटीन्द्र संराजितां ।
गायत्रीं हरिवल्लभां त्रिननां ध्यायामि पञ्चाननाम् ।।
सन्ध्या राग विचित्र वस्त्र विलसद् विप्रोत्तमैः सेवितां ।
ताराहीर सुमालिकां सुवलसद् रत्नेन्दु कुम्मान्तराम् ।
राका चन्द्र मुखीं रमापति नुतां शङ्खादि भास्वत् कराम् ।
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ।।
वेणी भुषित मालकध्वनिकरैः भृङ्गैः सदा शोभिताम् ।
तत्त्व ज्ञान रसायनज्ञ रसनासौधभ्रमद् भ्रामरीम् ।
नासालंकृत मौक्तिकेन्दु किरणैः सायंतमश् छेदिनीम् ।
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ।।
पादाब्जान्तर रेणु कुङ्कुम लसत् फालद्युरामावृताम् ।
रम्भा नाट्य विलोकनैक रसिकां वेदान्त बुद्धि प्रदाम् ।
वीणा वेणु मृदङ्ग काहलरवान् देवैं कृताञ्छृण्वतीम् ।
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ।।
हत्यापान सुवर्ण तस्कर महागुर्वङ्गनासंगमान् ।
दोषाञ्छैलसमान् पुरंदर समाः संच्छिद्य सुर्योपमाः ।
गायत्रीं श्रृति मातुरेक मनसा सन्ध्यासु ये भूसुरा ।
जप्त्वा यान्ति परां गति मनुमिमं देव्याः परं वैदिकाः ।।
।। इति श्रीमत् शङकराचार्य विरचितं गायत्र्यष्टकं संपूर्णम् ।।

No comments:

Post a Comment